________________
एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, 'उकोसेणं सत्तावन्न मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति ॥ चतुर्विंशतितमझते चतुर्विशतितमः ॥२४॥ ॥ समाप्तं च विवरणतश्चतुर्विंशतितमं शतम् ॥ २४ ॥
चरमजिनवरेन्द्रमोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्द्यसूत्रे ।
विवृतिमिह शते नो कर्तुमिष्टे बुधोऽपि, प्रचुरगमगभीरे किं पुनर्माशोऽज्ञः ॥१॥ व्याख्यातं चतुर्विंशतितमशतम् , अथ पञ्चविंशतितममारभ्यते, तस्य चैबमभिसम्बन्धः-प्राक्तनशते जीवा उत्पादादिद्वारैश्चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहगाथेयम्| लेसा य १दव २ संठाण ३ जुम्म ४ पज्जव ५ नियंठ ६ समणा य ७ओहे ८ भविया ९भविए १० सम्मा ११ मिच्छे य १२ उद्देसा ॥१॥ तेणं कालेणं २ रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ प०१, गोयमा ! छल्लेसाओ प०२०-कण्हलेसा जहा पढमसए वितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च | जाव चउधिहाणं देवाणं मीसगं अप्पाबहुगंति ॥ (सूत्रं ७१६)॥ 'लेसे त्यादि, तत्र 'लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्था याच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र १]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org