________________
| सितम्-अङ्गुलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यक्षुत्पद्यते, तथा 'मासपुहुत्तं'ति अनेनापि मासपृथ
क्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यक्षुत्पद्यत इत्युक्तं, 'जहा सन्निपंचिदियतिरिक्खजोणियस्स पंचिंदिय|तिरिक्खजोणिएसु उववजमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह-'नवरंपरिमाण मित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसङ्ख्येयास्ते उत्पद्यन्ते इत्युक्तं इह तु सज्ञिमनुष्याणां सङ्ख्येयत्वेन सङ्ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहावगन्तव्यानि, तानि चैवं-तेषां षट् संहननानि जघन्योत्कर्षाभ्यामङ्गलासङ्ख्येयभागमात्राऽवगाहना | षट् संस्थानानि तिस्रो लेश्या मिथ्या दृष्टिः द्वे अज्ञाने कायरूपो योगो द्वौ उपयोगौ चतस्रः सज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्घाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहूर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुःसमा| नोऽनुबन्धः, कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु सझिमनुष्य
पञ्चेन्द्रियतिर्यकस्थित्यनुसारतोऽवसेय इति ॥ अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-'जइ देवेही'त्यादि, 'असुर|कुमाराणं लद्धीति असुरकुमाराणां 'लब्धिः' परिमाणादिका 'एवं जाव ईसाणदेवस्स'त्ति यथा पृथिवीकायिकेषु देव| स्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्षु सा वाच्या, ईशानकान्त एव च देवः | | पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसङ्ख्येयान्तानां तेषां पञ्चन्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः जघन्यतोऽङ्गलासङ्ख्येयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गलसङ्ख्येयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरस्रं उत्तरवैक्रियापेक्षया तु
वेदा जपन्या भवग्रहणे न्द्रयतिर्यश्चमृत्पाणले
dain Education International
For Personal & Private Use Only
www.jainelibrary.org