________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२/
२४ शतके | उद्देश:१७ | १८-१९ विकलोत्पा.
॥८४॥
१०८-७११
| स्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहत्तैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीभिश्च || संवेध इति, नवमगमे 'नवरं परिमाण'मित्यादि, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह-'जइमणुस्सेहितो'इत्यादि, 'लद्धीसे तिसुवि गमएसुत्ति लब्धिः| परिमाणादिका 'से' तस्यासज्ञिमनुष्यस्य त्रिष्वपि गमेष्वाद्येषु यतो नवानां गंमानां मध्ये आधा एवेह त्रयो गमाः संभवन्ति, जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, 'एत्थ चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञिपञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेजवासाउएहिंतोत्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यश्विति । 'लद्धी से'इत्यादि, लब्धिः-परिमाणादिप्राप्तिः 'से' तस्य सज्ञिमनुष्यस्य यथैतस्यैव-सज्ञिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं-परिमाणतो जघन्येनैको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् सज्ञिमनुष्याणां, तथा षड्विधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः षविधसंस्थानिनः षड्लेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानाख्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुःसञ्ज्ञाश्चतुष्कषायाः पञ्चेन्द्रियाः षट्समुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्महरीस्थितय उत्कर्षेण तु पूर्वकोव्यायुषः प्रशस्तेतराध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवी उत्कषेतोऽष्टी भवाः कालादशन तुलाखत एवास्ते १। द्वितीयगमे 'सच्चेव वत्तव्य'त्ति प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो वे अन्तमुहूत्ते |उत्कर्पतश्चतस्रः पूर्वकोटयश्चतुरन्तर्महाधिकाः, तृतीयेऽप्येवं-'नवरं ओगाहणा जहन्नेणं अंगुलपुहुतं'त्ति, अनेनेदमव
॥८४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org