SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८४०॥ नोत्कृष्टता भवानां कालस्य च स्यादिति ॥ उत्पादितो नारकेभ्यः पश्चेन्द्रिय तिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पाद| यन्नाह - 'जह तिरिक्खे'त्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तद्वय'त्ति यैवात्मनः - पृथिवीकायिकस्य स्वस्थाने - पृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयम सङ्ख्या उत्पद्यन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह - 'नवर' मित्यादि । तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्व| पीति । तथा 'कालादेसेणं उभयओ ठिईए करेज'त्ति कालादेशेन संवेधं पृथिवीकायिकस्म सञ्ज्ञिपञ्चेन्द्रियतिरश्चश्च स्थित्या कुर्यात्, तथाहि प्रथमे गमे 'कालादेसेणं जहनेणं दो अंतोमुहुत्ताई' ति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिर्वर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूाः संवेध इति, 'सवत्थ अप्पणो लद्धी भाणियवत्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उद्वृत्तानां पञ्चेन्द्रियतिर्यक्षूत्पादे 'अप्पणो 'त्ति अष्कायादे: सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अथानन्तरोक्तमेवार्थ | स्फुटतरमाह - ' जहेव पुढविकाइएस उववजमाणाण' मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यक्षूत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवापकायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानां सा वाच्येति । असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पा|दाधिकारे - 'उक्को सेणं पलिओवमस्स असंखेज्जइभागटिईए'त्ति, अनेनासशिपञ्चेन्द्रियाणामसङ्ख्यातवर्षायुष्केषु पञ्चे|न्द्रियतिर्यक्षूत्पत्तिरुक्ता, 'अवसेसं जहेवे'त्यादि, अवशेषं परिमाणादिद्वारजातं यथा पृथिवी कायिकेषूत्पद्यमानस्यासज्ञिनः Jain Education International For Personal & Private Use Only २४ शतके उद्देशः १७ १८-१९ विकलोत्पादः सू ७०८-७११ ॥८४०॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy