________________
| प्रस्तटे प्रस्तटे ॥ १ ॥ ] 'उक्कोसेणं पन्नरसे' त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति, 'समुग्धाया चत्तारि 'त्ति वैक्रिया|न्ताः, 'सेसं तहेव' त्ति शेषं दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणां, 'सो चेवे' त्यादिर्द्वितीयो गमः, 'अवसेसं तहेव'त्ति यथौ| धिकगमे प्रथमे 'एवं सेसावि सत्त गमगा भाणिय'त्ति एवं - इत्यनन्तरोक्तगमद्वयक्रमेण शेषा अपि सप्त गमा भणितव्याः, नन्वत्रैवंकरणाद् यादृशी स्थितिर्जघन्योत्कृष्टभेदादाद्ययोर्गमयोर्नारकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्राप्नोति ? इति, अत्रोच्यते - ' जहेव नेरइयउद्देसए' इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमे सशिपञ्चेन्द्रिय| तिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः ॥ 'सरीरोगाहणा जहा ओगाहणसंठाणेत्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, सा च सामान्यत एवं - " सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए विउणा बिउणं च सेसासु ॥ १ ॥” इति [ त्रिरत्यधिकसप्तधनूंषि षट् चाङ्गुलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम् ॥ १ ॥ ] ' तिन्नि णाणा तिन्नि अन्नाणा नियमं ति द्वितीयादिषु सञ्ज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानाख्यज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावडिं सागरोवमाई' इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविं| शतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोव्यायुर्जातः एवं वारत्रये षट्षष्टिः सागरोपमाणि पूर्वकोटीत्रयं च | स्यात्, यदि चोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुर्नारको भूत्वा पूर्वकोव्यायुः पश्चेन्द्रियतिर्यक्षुत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात् ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति
Jain Education International
For Personal & Private Use Only
www.jaihelibrary.org