________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः
२४ शतके उद्देशः१२ मनुष्येभ्यः पृथ्व्याउत्पाद: सू७०३
॥८३२॥
मात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गुलस्य सङ्ख्येयभागमाना भवति आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया इति, 'तत्थ णं जे ते उत्तरवेउबिया ते णाणासंठिय'त्ति इच्छावशेन संस्थाननिप्पादनादिति, 'तिन्नि अन्नाणा भयणाए'त्ति येऽसुरकुमारा असज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंगस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहन्नेणं दसवाससहस्साई अंतोमुत्तमम्भहियाईति तत्र दशवर्षसहस्राण्यसुरेषु अन्तर्मुहूर्त्त पृथिवीकायिकेष्विति, इत्थमेव 'उक्कोसेणं साइरेगं सागरोवम' इत्याद्यपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्धृत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मज्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थितिः अन्त्यगमेषु च साधिक सागरोपममिति ॥ ज्योतिष्कदण्डके 'तिन्नि नाणा तिन्नि अन्नाणा नियमति इहासज्ञी नोत्पद्यते सज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेस्त्रीणि ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमंति अष्टमो भागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं, इदं च तारकदेवदेवीराश्रित्योक्तम् , 'उक्कोसेणं पलिओवमं वाससयसहस्समभहियंति इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति ॥ अथ वैमानिकेभ्यस्तमुत्पादयनाह–'जई'त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावसेयमिति ॥ चतुर्विशतमशते द्वादशः॥२४-१२॥
RSSCARRIAGRAA
॥८३२॥
आउक्काइया णं भंते ! कओहिंतो उवव. एवं जहेव पुढविक्काइयउद्देसए जाव पुढविक्काइया णं भंते ! जे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org