________________
उक्कोसेणं सातिरेगाई दो सागरोवमाई सेसं तं चेव । सेवं भंते २ जाव विहरति (सूत्रं७०३)॥२४-१२॥ __ 'जईत्यादि, तत्र च 'एवं जहे'त्यादि, यथा हि असज्ञिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापि त्रय औधिका गमा भवन्ति, अजघन्योत्कृष्टस्थितिकत्वात् , संमूछिममनुष्याणां न शेषगमषट्कसम्भव इति ॥ अथ सज्ञिमनुष्यमधिकृत्याह-'जइ सन्नी'त्यादि, 'जहेव रयणप्पभाए उववजमाणस्स'त्ति सज्ञिमनुष्यस्यैवेति प्रक्रमः, 'नवर'मित्यादि, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तमिह त्वङ्गलासङ्ख्येयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य सज्ञिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, सचिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्त्तप्रमाणत्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, 'मज्झिल्ले त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्लेत्यादि, औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाऽप्यवगाहनाऽन्तर्मुहूर्तरूपाऽपि स्थितिरुता सा चेह न वाच्या अत एवाह-'नवरं ओगाहणे'त्यादि ॥ अथ देवेभ्यस्तमुत्पादयन्नाह-'जई'त्यादि, 'छण्हं संघयणाणं असंघयणि'त्ति, इह यावत्करणादिदं दृश्य-'णेवट्ठी व छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुना मणामा ते तेसिं सरीरसंघायत्ताए'त्ति, 'तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं ति उत्पादकालेऽनाभोगतः कर्मपारतच्यादङ्गुलासङ्ख्येयभाग
HO HOSHIIIHAHISIASA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org