SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ CREENSHORGANISAR 'नवर'मित्यादि, 'अट्ठ भवग्गहणाईति एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए संवच्छरेहिं अन्भहियाई'ति चतुर्यु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाह-नवर'मित्यादि, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गलासङ्ख्येयभागमानमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनमानाऽप्युक्तेति ?, तथा 'नो सम्मदिट्ठी' जघन्यस्थितिकतया |सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् २, तथा द्वे अज्ञाने प्राक् च ज्ञाने अप्युक्ते ३, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक् चासावप्युक्तः ४, तथा स्थितिरिहान्तर्मुहूर्तमेव प्राक् च संवत्सरद्वादशकमपि ५, तथाऽध्यवसानानीहाप्रशस्तान्येव प्राक् चोभयरूपाणि ६, सप्तम नानात्वमनुबन्ध इति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सजयेयभवलक्षणः कालादेशेन च सङ्ख्ये| यकाललक्षणः ७, तृतीये तु विशेषमाह-तइए गमए'इत्यादि, अन्त्यगमत्रये 'कालादेसेणं उवजुजिऊण भाणिय'ति यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वर्षैरधिकानि द्वितीये त्वष्टचत्वारिंशद् वर्षाण्यन्तमुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते ॥ अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह–'जइ तेइंदी'त्यादि, 'छन्नउयराइंदियसयअन्भहियाईति इह तृतीयगमेऽष्टौ भवास्तत्र च चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्र. माणेषु यथोक्तं कालमानं भवतीति, 'मज्झिमा तिन्नि गमा तहेव'त्ति यथा मध्यमा द्वीन्द्रियगमाः, 'संवेहो उवउज्जिभाऊण भाणियन्वोत्ति स च पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालादेशेन तु पश्चिमगमत्रयस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy