SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 'उक्कोसेणं सोलसुत्तरं वासस्यसहस्सं'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णां भवानां भावात् तत्रोत्पित्सोश्चाष्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च द्वाविंशतेर्वर्षसहस्राणां सप्तानां च प्रत्येकं चतुर्गुणितत्वे ८८००० | २८००० | मीलने च षोडशसहस्राधिकं लक्षं भवति ११६०००, 'छट्टे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्त्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं | चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् ८८००० अत एव सप्तमादिगमसंवेधा अप्यूह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमलनादिति ॥ अथ तेजस्कायिकेभ्यः पृथि - | वीकायिकमुत्पादयन्नाह - 'जई 'त्यादि, 'तिन्नि लेसाओ' त्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्या सद्भावाच्चतस्रस्ता उक्ताः | इह तु तदभावात्तिस्र एवेति, 'ठिई जाणियव'ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तु त्रीण्यहोरात्राणीति । | 'तईयगमे' इत्यादि, तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुर्षु पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुष्वेव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, 'एवं संवेहो उवजुंजिऊण भाणियवो'त्ति, स चैवं - षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यं, शेषगमेषु तूत्कृष्टतोऽसङ्ख्येया भवाः कालोऽप्यसङ्ख्येय एवेति ॥ अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह - 'जई'त्यादि, 'संवेहो वाससहस्सेहिं कायवो'त्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृतः इह तु वर्षसहस्रैः स कार्यो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy