SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८२६॥ वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति । 'तइयगमए' इत्यादि, 'उक्कोसेणं एवं वाससयसहस्सं' ति अत्राष्टौ भवग्रहणानि तेषु च चतुर्ष्वष्टाशीतिर्वर्षसहस्राणि पुनरन्येषु चतुर्षु वायुसत्केषु वर्षसहस्रत्रयस्य चतुर्गुणितत्वे द्वादश उभयमी - लने च वर्षलक्षमिति, 'एवं संवेहो उवजुंजिऊण भाणियो'त्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रहणानि इतरत्र त्वसोयानि, एतदनुसारेण च कालोऽपि वाच्य इति ॥ अथ वनस्पतिभ्यस्तमुत्पादयन्नाह - 'जइ वणस्सई' त्यादि, 'वणस्सइकाइयाणं आउक्काइयगमसरिसा नव गमा भाणियव' त्ति, यस्त्वत्र विशेषस्तमाह - 'णाणासंठिए' त्यादि, अप्कायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता । तथा 'पढमएस' इत्यादि, प्रथमकेष्वौधिकेषु | गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गुलासङ्ख्यात भागमात्रैवेत्यर्थः, 'संवेहो ठिई य जाणि| यह 'ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति - 'ए' इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससय सहस्स'ति, इह गमे उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्षु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिः तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुर्षु भवेषु वर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति ॥ अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह— जइ बेईदिएहिंतो उबवज्रंति किं पज्जत्तबेइदिएहिंतो उवव० अपजत्तबेईदिएहिंतो ?, गोयमा ! पज्जन्त बेई| दिएहिंतो उवव० अपज्जत्तबेईदिएहिंतोवि उबव०, बेईदिए णं भंते ! जे भविए पुढविकाइएस उबवजित्तए Jain Education International For Personal & Private Use Only २४ शतके उद्देशः १२ पृथ्व्याउ त्पादः सू ७०१ ॥८२६॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy