________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ८१७॥
ओहिएसु १ ओहिओ जहन्नट्टितीएस २ ओहिओ उक्कोसट्ठिईएस ३'त्ति एते औधिकास्त्रयो गमाः ३, एतेषु 'एषा' अनन्तरोक्ता मनुष्यस्य 'लब्धिः ' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम् - यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिष्वित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरो|पमं कालतस्तु संवेधो जघन्यतो वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिकं, तृतीयेऽ| प्येवमेव नंवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, | 'सो चेवे' त्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियचो 'त्ति, स चैवं - जघन्यस्थितिक औधिकेष्वि| त्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, 'सो चेवेत्यादि सप्तमाद्गमत्रयं, तत्र च 'इमं नाणत्त' मित्यादि, शरीरावगाहना पूर्व हस्तपृथक्त्वं धनुः शतपञ्चकं चोक्ता इह तु धनुःशतपञ्चकमेव, एवमन्यदपि नानात्वमम्यूह्यम् । 'मणुस्सठिई जाणियव ेत्ति तिर्यक स्थितिर्जघन्याऽन्तर्मुहूर्त्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्ज्ञातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति ॥ सप्तमपृथिवीप्रथमगमे 'तेत्तीसं सागरोवमाई पुत्रकोडीए अमहियाई ति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येध्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ चतुर्विंशतितमशते प्रथमः ॥ २४-१ ॥
1444
Jain Education International
For Personal & Private Use Only
२४ शतके उद्देशः १ नारकाणा
मुत्पादः
सू६९७
॥८१७॥
www.jainelibrary.org