________________
र्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यात्स तथा तम् 'उक्कडफुडकुडिलजडुलकक्खड वियडफडाडोवकरणदच्छति उत्क | टो बलवताऽन्येनाध्वंसनीयत्वात् स्फुटो - व्यक्तः प्रयत्नविहितत्वात् कुटिलो - वक्रस्तत्स्वरूपत्वात् जटिल :- स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात् कर्कशो- निष्ठुरो बलवत्त्वात् विकटो - विस्तीर्णो यः स्फटाटोपः - फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'लोहागरधम्ममाणधमधर्मेतघोसं'ति लोहस्येवाकरे ध्मायमानस्य-अग्निना ताप्यमानस्य धमधमायमानोधमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः - शब्दो यस्य स तथा तम्, 'अणागलियचंड तिवरोस' ति अनिर्गलितः - अनि वारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीनो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धर्मतं 'ति शुनो मुखं श्वमुखं तस्ये - वाचरणं श्वमुखिका - कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचडुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः 'सरसरसरसरस्स' त्ति सर्पगतेरनुकरणम् 'आइचं निज्झाय'त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थ 'सभंडमत्तोवगरणमायाय'त्ति सह भाण्डमात्रया - पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, 'एगाहच्चं 'ति एका एव आहत्या - आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं कथमिव ? इत्याह- 'कूडाहच्चं 'ति कूटस्येव - पाषाणमयमारणमहायन्त्रस्ये वाहत्या - आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'परियार'त्ति पर्यायः - अवस्था 'कित्तिवन्नसद्दसि - | लोग 'त्ति इह वृद्धव्याख्या - सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवभणुयासुरे लोए' त्ति सह देवैर्मनुजैरसुरैश्च यो लोको - जीवलोकः स तथा तत्र, 'पुवंति' त्ति 'प्लवन्ते'. गच्छन्ति 'लुङ्गतौ' इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'धुवंति' त्ति क्वचित्तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org