________________
णाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनम् ॥ अथाधिकृत शतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह - 'जीवपए' इत्यादि, इयं च गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्व दृश्यत इति । तत्र प्रथमोदेशको व्याख्यायते, तत्र च कायसंवेधद्वारे - 'से णं भंते ! पज्जत्ताअसन्नी' त्यादि, 'भवादेसेणं' ति भवप्रकारेण 'दो भवग्गहणाई'ति एकत्रासञ्ज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सञ्ज्ञित्वमेव | लभते न पुनरसञ्ज्ञित्वमिति, 'कालायसेणं' ति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्य स्थितिरन्तर्मुहूर्त्ताभ्यधिकानि असञ्ज्ञिभवसम्बन्धिजघन्यायुः सहितानीत्यर्थः, 'उक्कोसेण' मित्यादि, इह पल्योपमासङ्ख्येयभागः पूर्वभवासञ्ज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासञ्ज्ञ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारकेषूत्पित्सवोऽसज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूत्पित्तूंस्तान् प्ररूपयन्नाह - 'पज्जत्ते' त्यादि, सर्व चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानार के पूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासञ्ज्ञिनमाश्रित्योक्ताः, एवमेत एव तं | जघन्यस्थितिकं ३ उत्कृष्टस्थितिकं ३ चाश्रित्य वाच्यास्तदेवमेते नव गमाः, तत्र जघन्यस्थितिकमसञ्ज्ञिनमाश्रित्य सामान्यना - रकगम उच्यते- 'जहन्ने' त्यादि, 'आउं अज्झवसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्त्तमेव जघन्य स्थितेरसञ्ज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्, दीर्घ स्थितेर्हितस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात्, अनुबन्धश्च स्थितिसमान एवेति । कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त्त वाच्यमिति ४ । एवं जघन्यस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह - ' जहन्नका लट्ठिई' त्यादि ५ ॥ एवं जघन्यस्थितिकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org