________________
इयवंदणो इहयं ॥४॥ पढमेण नंदणवणं बीउप्पाएण पंडगवणंमि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ५॥" [अतिशयेन चरणसमर्था जङ्घाविद्याभ्यां चारणा मुनयः । जङ्घाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि ॥१॥ एकोत्पादेन ततो रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन ॥२॥ प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति तृतीयोत्पादेन तत इहायाति जवाचारणः ॥ ३॥ प्रथमेन मानुषोत्तरनगं द्वितीयेन नन्दीश्वरं स एति । ततस्तृतीयेनेहति कृतचैत्यवन्दनः॥४॥ प्रथमेन नन्दनवनं द्वितीयोत्पादन पण्डकवनम् । एतीह तृतीयेन यो | विद्याचारणो भवति ॥५॥] इति । 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया च-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिंति उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेषु चेह प्रक्रमात्तपो गृह्यते ततश्च. 'उत्तरगुणलब्धि' तपोलब्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः। कहं सीहा गइ'त्ति कीदृशी शीघ्रा 'गतिः' गमनक्रिया 'कहं सीहे गइविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽप्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः ?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम् ? इत्यर्थः, "अयन्न'मित्यादि, अयंजम्बूद्वीप एवंभूतो भवति ततश्च देवे णमित्यादि 'हत्वमागच्छेजा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, 'से णं तस्स ठाणस्से'त्यादि, अयमत्र भावाथः-लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन | आगमनं चैकेन जडाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति तल्लब्धिस्वभावात् , अन्ये त्वाहुः-विद्याचारणस्यागमनकाले
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org