________________
| णिबो० णाणविसयस्स भंते ! कइविहे बं० प० ? जाव केवलनाणविसयस्स मइअन्नाणविसयस्स सुयअन्ना| णविसयस्स विभंगणाणविस० एएसिं सवेसिं पदाणं तिविहे बंधे प० सवेऽवेते चउधीसं दंडगा भा० नवरं जाणियां जस्स जइ अत्थि जाव वेमाणि० भंते ! विभंगणाणविसयस्स कइवि० बंधे प०, गोयमा ! तिविहे बंधे प० - जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे, सेवं भंते ! २ जाव विहरति ॥ ( सूत्रं ६७४ ) ।। २०८७ ॥ 'कति 'मित्यादि, 'जीवप्पओगबंधे'त्ति जीवस्य प्रयोगेण - मनःप्रभृतिव्यापारेण बन्धः - कर्म्मपुद्गलानामात्म| प्रदेशेषु संश्लेषो बद्धस्पृष्टादिभाव करणं जीवप्रयोगबन्धः, 'अनंतरबंधे 'त्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्त्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्ध इति, 'णाणावरणिजोदयस्स'त्ति 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्म्मण उदयप्राप्तज्ञानावरणीयकर्म्मण इत्यर्थः, अस्य च बन्धो भूतभावापेक्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो वेद्यते किञ्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म्म, अथवा ज्ञानावरणीयोदये यद्वध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि । 'सम्मद्दिद्वीप' इत्यादि, ननु 'सम्मद्दिट्ठी त्यादौ कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात् ?, अत्रोच्यते, नेह बन्धशब्देन कर्म्मपुद्गलानां बन्धो विवक्षितः किन्तु सम्बन्धमात्रं तच्च जीवस्य दृष्ट्यादिभिर्द्धमैः सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवद्यं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे- "जीवप्पओगबंधे अणंतरपरंपरे च बोद्धबे ८ । पगडी ८ उदए ८ वेए ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org