________________
| २० शतके | उद्देशः४ इन्द्रियोपच यःसू ६६७ परमाण्वा| दिवर्णादि
सू ६६८
व्याख्या- भेदतदुभयभावाद्वा ॥१॥] अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाह
प्रज्ञप्तिः क्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेअभयदेवी
कविवक्षणादेवेति ॥ पञ्चप्रदेशिके 'जइ तिवन्ने'त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमया वृत्तिः२
स्यासम्भवात् , एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति । 'जइ चउवन्ने इत्यादि, चतुर्णा पदानां षोडश भङ्गास्तेषु चेह ॥७८४॥ पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येक भावात्पञ्चविंशतिरिति,
ईयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुष्पश्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति ॥'छप्पएसिएण'मित्यादि, इह सर्व पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ | भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात् , एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां षोडशानां भङ्गकानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पञ्चपञ्चाशदिति । 'जह पंचवन्ने'इत्यादौ षड् भङ्गाः, 'छासीयं भंगसयंति एकादिसंयोगसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशत्षट्सङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति ॥ 'सत्तपएसिय'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति । 'जइ पंचवन्ने' इत्यादि, इह पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा जा उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयंत्ति एकद्वित्रिचतु
॥७८४॥
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org