SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ SAS ROSASUSASSAR निद्धे'त्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश । 'जइ चउफासे'इत्यादि | तत्र 'देसे सीए'त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्-"अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे ॥१॥" [अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् । अन्त्यकोष्ठान् पुनः लघुभिः पूरयेद्भ|ङ्गप्रस्तारे ॥१॥] स्थापना चेयम्-११ १११२ ११२१ ११२२ ११'छत्तीसं भंग'त्ति द्वित्रिचतुःस्पर्शेषु चतुःषोडशषोडशानां भाषादिति, इह वृद्ध-११ १२१२ १२२१ १२२२ १२ गाथे-"वीसइमसउद्देसे चउप्पएसाइए चउप्फासे। एगबहुवयणमीसा बीयाइया कह ११ २११२ २१२१ २१२२ २१ भंगा?॥१॥" [विंशतितमे शतके पञ्चमोद्देशे चतुष्प्रदेशादिके चतुःस्पर्शे एकबहुव- ११ २२१२ २२२१ २२२२ २२ चनमिश्रा द्वितीयादयो भङ्गाः कथं स्युः ? ॥१॥] एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति ?, यत्रैव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने त्वेकवचनम् , एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तर-“देसो देसा व मया दबकूखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले ॥१॥"[ देशो देशा वा विवक्षया द्रव्यक्षेत्रवशतो वा मताः । वचनकाले सङ्घात Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy