SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वेदणाहिंतो पुढविकाइए अकंते समाणे एत्तो अणिट्टतरिय चेव अकंततरियं जाव अमणामतरियं चेव वेदणं पञ्चणुम्भवमाणे विहरति । आउयाए णं भंते ! संघट्टिए समाणे केरिसियं वेदणं पचणुभवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सइकाएवि जाव विहरति सेवं भंते ! २ त्ति ॥ (सूत्रं ६५३)॥ १९-३ ॥ _ 'पुढवी'त्यादि, 'वन्नगपेसिय'त्ति चन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः 'बलवं'ति सामर्थ्यवती 'जुगवं'ति सुषमदुषमादिविशिष्टकालवती 'जुवाणि'त्ति वयःप्राप्ता 'अप्पायंक'त्ति नीरोगा 'वन्नओ'त्ति अनेनेदं सूचितं-'थिरग्गहत्था दढपाणिपायपिटुंतरोरुपरिणए'त्यादि, इह वर्णके 'चम्मेदुदुहणे'त्याद्यप्यधीतं तदिह न वाच्यं, एतस्य विशेषणस्य स्त्रिया असम्भवात् , अत एवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकाया न भन्नई'त्ति, तत्र च चर्मेष्टकादीनि व्यायामक्रिया यामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि च-घनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथाद विधः कायो यस्याः सा तथेति, 'तिक्खाए'त्ति परुषायां 'वइरामईए'त्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति 'सण्हकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां 'वट्ठावरएणंति , | वर्तकवरेण-लोष्टकप्रधानेन 'पुढविकाइयंति पृथिवीकायिकसमुदयं 'जतुगोलासमाणं'ति डिम्भरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः 'पडिसाहरिए'त्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसवेपणं तु शिलायाः पततः संरक्षणं, 'अत्थेगइय'त्ति सन्ति 'एके केचन 'आलिद्ध'त्ति आदिग्धाः शिलायां शिलापुत्रके Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy