SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ OSHIRISH प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति ॥ ज्ञानद्वारे-- |'नाणी जहा सम्मदिहित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः-जीवः सिद्धश्चाचरमः जीवो हि ज्ञानस्य सतः प्रतिपा| तेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे |चरमा अन्यथा त्वचरमा इति, 'सव्वत्थ'त्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्ष| याऽऽह-'आभिणिबोहिए'इत्यादि, 'जहा आहारओ'त्तिकरणात् स्याञ्चरमः स्यादचरम इति दृश्य, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, 'जस्स जं अत्थि'त्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, केवलनाणी'त्यादि, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यते एवासावचरम इति [ग्रन्थाग्रम् १५०००] एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयं, | शेषमप्यनयव दिशाऽम्युह्यमिति ॥ अथ चरमाचरमलक्षणाभिधानायाह-'जो जं पाविहिति'गाहा 'यः' जीवो नारकादिः N'य' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'प्राप्स्यति'लप्स्यते पुनः पुनरपि "भावं' धम्मै स 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा 'अत्यन्तवियोगः' सर्वथाविरहः 'यस्य' जीवादेर्येन भावेन स तेनेति शेषः चरमो भवतीति ॥ अष्टादशशतस्य प्रथमः ॥ १८-१॥ HIASAT dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy