SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ यो नारको नारकत्वादुद्वत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यस्त्वचरमः, एवं यावद्वैमानिकः। |'सिद्धे जहा जीवे'त्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनङ्ग्यतीति । 'जीवा ण'मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति ॥ आहारकद्वारे-'आहारए सवत्थ'त्ति सर्वेषु जीवादिपदेषु 'सिय चरिमे सिय अचरिमे'त्ति कश्चिच्चरमो | यो निर्वास्यति अन्यस्त्वचरम इति । अनाहारकपदेऽनाहारकत्वेन जीवः सिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात् , जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह-'अणाहारओ'इत्यादि, 'सेसठाणेसु'त्ति नारकादिषु पदेषु 'जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लहैप्स्यतेऽसौ अचरम इति ॥ भव्यद्वारे-'भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य है। चरमत्वप्राप्तः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सवत्थ'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमे'त्ति अभव्यस्य भव्यत्वेनाभावात् , 'नोभवेत्यादि उभयनिषेधवान् जीवपदे सिद्धपदे | चाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति ॥ सज्ञिद्वारे-'सन्नी जहा आहारओ'त्ति सज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्झ्यपि, उभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः | | उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ॥ लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे|'सम्मद्दिट्टी जहा अणाहारओ'त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, RISTORAGAISRISISSA Jain Education Intemanona For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy