________________
अप्रथम इत्यर्थः असंयतत्वस्थानादित्वात् , 'संजयासंजए'इत्यादि संयतासंयतो जीवपदे पञ्चेन्द्रियतिर्यपदे मनुष्यपदेचदा | भवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'मोसंजएनोअस्संजए'इत्यादि, निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च स्यात् स च प्रथम एवेति॥ कषायद्वारे-'सकसाईत्यादि, कपायिणः आहारकवदप्रथमा अनादित्वात्कपायित्वस्येति "अकसाईत्यादि, अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलाभे स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति ॥ ज्ञानद्वारे-'णाणी'त्यादि, 'जहा सम्मद्दिट्ठी'त्ति स्यात्प्रथमः स्थादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अस्थिति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, 'केवलनाणी| त्यादि व्यक्तम् , 'अन्नाणी'त्यादि, "जहा आहारए'त्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभादिति ॥ योगद्वारे-'सजोगी'त्यादि, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अत्थिति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'अजोगी'त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति ॥ उपयोगद्वारे-'सागारे'त्यादि 'जहा अणाहारए'त्ति साकारोपयुक्का अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु तु नो पथमा अप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अमथमाः साकारानाकारोपयोग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org