SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ &दकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा-जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं | भिन्नं, भेदे हि निःस्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति ॥ पूर्वं जीव४. द्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह-'देवे ण'मि-18 त्यादि, 'पुवामेव रूपी भवित्त'त्ति पूर्व-विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः | 'अरूविं'ति अरूपिणं-रूपातीतममूर्त्तमात्मानमिति गम्यते, 'गोयमा'इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्श नाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह-'अहमेयं जाणामित्ति अहम् 'एतत् वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु || जानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामिति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामि'त्ति बुद्ध्ये-श्रद्दधे, बोधेः सम्य ग्दर्शनपर्यायत्वात् , किमुक्तं भवति ?-'अभिसमागच्छामि'त्ति अभिविधिना साङ्गत्येन चावगच्छामि-सर्वैः परि-IN |च्छित्तिप्रकारैः परिच्छिनझि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तदर्शयन्नाह'मए'इत्यादि, किं तदभिसमन्वागतम् ? इत्याह-'जन्न'मित्यादि, 'तहागयस्स'त्ति तथागतस्य-तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स'त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह-'सकम्मरस'त्ति कर्मापुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह–'सरागस्स'त्ति रागसम्बन्धात् कम्मेसम्बन्ध इति भावः, रागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'सवेयस्स'त्ति रूयादिवेदयुक्तस्य, तथा 'समोहस्स'त्ति इह मोहः-कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स'त्ति व्यक्त 'ताओ सरीराओ अविप्पमुक्कस्स'त्ति येन शरीरेण | OSRESTORAGOSTERARIO Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy