________________
व्याख्या
प्रज्ञप्तिः अभयदेवीयावृत्तिः२
॥७२४॥
| पुवामेव अरूवी भवित्ता पभू रूविं विउवित्ताणं चिहित्तए ?, णो तिणढे जाव चि०, गो!अहमेयं जाणामि
१७ शतके जाव जन्नं तहागयस्स जीवस्स अरूवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ उद्देशः२ सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं०-कालत्तेवा जाव लुक्खत्ते वा, से तेण?णं जाव चिहित्तए वा ॥ रूप्यरूपिसेवं भंते ! २त्ति (सूत्रं ५९७)॥१७-२॥
ताभवनं | 'अन्नउत्थिया णमित्यादि, प्राणातिपातादिषु वर्तमानस्य देहिनः 'अन्ने जीवेत्ति जीवति-प्राणान् धारयतीति जीवः
सू ५९७ शरीरं प्रकृतिरित्यर्थः स चान्यो-व्यतिरिक्तः अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा-जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृ न. पुनरात्मेत्येके, अन्ये त्वाहुः-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत् , तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहुः-अन्यो जीवोऽन्यश्च जीवात्मा-जीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह | सर्वावस्थासु जीवजीवात्मनो दख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेव जीवे सच्चेव जीवाय'त्ति स एव जीवः-शरीरं स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहक
॥७२४॥ | तस्य च कम्मेणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकतद्दे-13
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org