________________
नुमतिमेदेन त्रिकरणशुद्धन-मनोवाकायशुद्धेन 'वसुहारा सुट्टत्ति वसुधारा द्रव्यरूपा धारा वृष्टा 'अहो दाणं ति अहोशब्दो विस्मये 'कयत्थे 'ति कृतार्थ:-कृतस्वप्रयोजनः 'कयलक्खणे'त्ति कृतफलवल्लक्षण इत्यर्थः 'कया मं लोग'त्ति कृतौ शुभफलौ अवयवे समुदायोपचारात् लोको-इहलोकपरलोको 'जम्मजीवियफले'त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुरूवे'त्ति 'तथारूपं तथाविधे अविज्ञातव्रतविशेष इत्यर्थः 'साधौं श्रमणे 'साधुरूपे साध्वाकारे, 'धम्मंतेवासित्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यतेधान्तेवासी, 'खजगविहीए'त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सबकामगुणिएणं ति सर्वे कामगुणा-अभिलापविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्नेणं ति परमानेन-बैरेय्या 'आयामेत्व'त्ति आचामितवान् तमोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । 'सम्भि
तरबाहिरिए'त्ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'मग्गणगवेसणं'ति अन्वयतो मार्गणं व्यतिरेकतो तू गवेषणं ततश्च समाहारद्वन्द्वः 'सुई वत्ति श्रूयत इति श्रुतिः-शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति | श्रुतिग्रहणं 'खुई वत्ति क्षवणं क्षुतिः-छीत्कृतं ताम् , एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवत्तिं वत्ति प्रवृत्ति वार्ता, 'साडियाओ'त्ति परिधानवस्त्राणि 'पाडियाओ'त्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडियाओ'त्ति दृश्यते तत्र भण्डिका-रन्धनादिभाजनानि, 'माहणे आयामेति'त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति शाटिकादीन् । ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोहति सह उत्तरौष्ठेन सोत्तरौष्ठं-सश्मश्रुक यथा भवतीत्येवं 'मुंडंति मुण्डनं कारयति
सूई कत्ति क्षवण क्षुतियत इति श्रुतिः-शब्द गणगवेसण तिजन्य तात्पर्यायः । 'सम्भिक
ऑत्ति परिधानवस्वादिषाऽप्यदृश्यमनुष्यादिगम शब्देन निश्चीयत इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org