SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहडिल्ला जहा रयणप्पभाए हेढिल्लेत्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तमध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षटुं वाच्यमिति भावः । अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानां च प्रस्तुतवक्तव्यतामाह-एवं जाव अहेसत्तमाए' इत्यादि, अवेयकविमानेषु तु यो विशेषस्तं दर्शयितुमाह'नवर'मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तनचरमान्तयोः पञ्चेन्द्रियेषु ल देशानाश्रित्य भङ्गकत्रयं संभवति, अवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति ॥ चरमाधिकारादेवेदमपरमाह-'परमाणु'इत्यादि, इदं च गमनसामर्थ्य | परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति ॥ अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह पुरिसे णं भंते ! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरु वा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए ?, गोयमा जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरुं वा आउट्टावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे ॥(सूत्रं ५८५)॥ 'पुरिसे ण'मित्यादि, 'वासं वासई वर्षों-मेघो वर्षति नो वा वर्षों वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy