________________
ए तमाए'त्ति अजीवानायवजजीवानां यत्रैकप्रदेशको न वाच्यो,दीन्द्रियस्य च
एगिंदियपएसा य अणिंदियप्पएसा य बेइंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो,द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात , तदसम्भवञ्च लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, "अजीवा जहा। दसमसए तमाए'त्ति अजीवानाश्रित्य यथा दशमशते "तमाए'त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितन-18 | चरमान्तमाश्रित्य वाच्यं, तचैवं-जे अजीवा ते दुविहा पण्णत्ता, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा|| ते चउबिहा पण्णत्ता, तंजहा-खंधा ४, जे अरूविअजीवा ते छविहा पण्णत्ता, तंजहा-नो धम्मत्थिकाए धम्मत्थिकायस्स | | देसे धम्मत्थिकायस्सप्पएसा' एवमधाकाशास्तिकाययोरपीति ॥ 'लोगस्स णं भंते ! हिडिल्ले इत्यादि, इह पूर्वचरमान्त-13 भवद्भङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिदियदेसा य बेइंदियरस य देसा' इत्येवंरूपो है 15 मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्तस्यासम्भवाद्, अत एवाह-'एवं मज्झिल्लविरहिओ'त्ति, 2
देशभङ्गका दर्शिताः अथ प्रदेशभङ्गकदर्शनायाह-'पएसा आइल्लविरहिया सधेसिं जहा पुरच्छिमिल्ले चरिमंते'त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा य बेइंदियाण य|| |पएसा'इत्येतद्वयं, 'सबेर्सि'ति द्वीन्द्रियादीनामनिन्द्रियान्तानाम् 'अजीवे'त्यादि व्यक्तमेव ॥ चरमान्ताधिकारादेवेदमाह'इमीसे णमित्यादि । 'उवरिले जहा दसमसए विमला दिसा तहेव निरवसेस'ति दशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्सो वाच्यो निरवशेषं यथा भवतीति, स चैवम्-'इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिले
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org