SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७१५ ॥ | श्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं तच्चेदम्- ' अहवा एगिंदियदेसा य बे इंदियरस य देसा अहवा एगिंदियदेसा य बेइं दियाण य देसा अहवा एगिंदियदेसा य तेइंदियरस य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह- 'नवरं अनिंदियाण' मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये 'अहवा एगिंदियदेसा य अनिंदियस्स देसे' इत्येवं रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्म्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य पूर्वचरमान्तेष्वद्धा| समयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र एव तद्भावात्, अत एवाह - 'जे अरूवी अजीवा ते छबिहा अद्धासमयो नत्थि'त्ति, 'उवरिल्ले चरिमंते'त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र | चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवे' त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यों, तेषु हि मध्यमभङ्गः 'अहवा एगिंदियदेसा य अणिदियदेसा य बेइंदियस्स य देसाः इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितन चरिमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एव तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकप्रतररूपतया लोक| दन्तकाभावेन देशानेकत्वा हेतुत्वादिति, अत एवाह- 'एवं मज्झिल्लविरहिओ' त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमा| न्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ'ति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया ' अहवा Jain Education International For Personal & Private Use Only १६ शतके उद्देशः ८ लोकमहत्ता चरमान्ता दौ जीवजी वदेशादि सू ५८३ ॥७१५॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy