________________
सणअणागारपासण्या' इत्यादि, अस्य चायमर्थः - 'पासणय'त्ति पश्यतो भावः पश्यत्ता - बोधपरिणामविशेषः, ननु पश्यत्तो| पयोगयोस्तुल्ये साकारानाकारभेदत्वे कः प्रतिविशेषः १, उच्यते, यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता यत्र पुनर्वर्त्त| मानकालस्त्रैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे' इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणां, चक्षुरिन्द्रियोपयोगस्य | शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शन| स्यैव पश्यत्ता नेतरस्येति, अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति ॥ षोडशशते सप्तमः ॥ १६-७ ॥
सप्तमे उपयोग उक्तः, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रम् - किंमहालए णं भंते ! लोए पन्नत्ते ?, गोयमा ! महतिमहालए जहा बारसमसए तहेव जाय असंखेजाओ जोयणको डाकोडीओ परिक्खेवेणं, लोयरस णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवा जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीव एसावि ॥ जे जीवदेसा ते नियमं एगिंदियदेसा य अहवा एगिंदियदेसा य बेइंदियरस य देसे एवं जहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अनिंदियाणं आइल्लविरहिओ । जे अरूवी अजीवा ते ।
Jain Educationtational
For Personal & Private Use Only
www.jainelibrary.org