SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३७३॥ सगस्स णं भंते । तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणजावपडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया से निज्जरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ । समणोवासगस्स णं भंते ! तहारूवं अस्संजयअविरयपडिहयपञ्चक्रखायपावकम्मं फासुएण वा अफासुरण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाण जाव किं कज्जइ ?, गोयमा ! एगंतसो से पावे कम्मे कज्जइ नत्थि से काइ नि जरा कज्जइ ॥ ( सूत्रं ३३२ ) ॥ 'सम' त्यादि, 'किं कज्जइति किं फलं भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नत्थिय से' त्ति नास्ति चैतद् यत् 'से' तस्य पापं कर्म 'क्रियते' भवति अप्रासुकदाने इवेति, 'बहुतरिय'त्ति पापकर्म्मापेक्षया 'अप्पतराए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः - गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहा रतस्तच्चारित्रबाधा च भवति, ततश्च चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्व पापं कर्म्म, तत्र च स्वहेतु सामर्थ्यात्पापा|पेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते - असंस्तरणादिकारणत एवाप्रासु - कादिदाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम् — “संधरणंमि असुद्धं दोण्हवि गेण्हंतदिंतयाणऽहियं । आउरदिइंतेणं तं चैव हियं असंथरणे ॥ १ ॥” इति [ निर्वाहेऽशुद्धं गृह्णददतोर्द्वयोरप्यहितं । आतुरदृष्टान्तेन तदेवासंस्तरणे हितं ॥ १ ॥ ] अन्ये त्वाहुः - अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशाद्बहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च – “परमरहस्समिसीणं समत्तगणिपिडगझरिय Jain Education International For Personal & Private Use Only ८ शतके उद्देशः ६ दाने निर्जरादि सू ३३२ ॥ ३७३ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy