________________
| 'केसवाणिज्जेत्ति केशवज्जीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः'रसवाणिजे'त्ति मद्यादिरसविक्रयः विसवाणिजे. त्ति विषस्योपलक्षणत्वाच्छस्त्रवाणिज्यस्याप्यनेनावरोधः, "जंतपीलणकम्मत्ति यन्त्रेण तिलेश्वादीनां यत्पीडनं तदेव कर्म यन्त्रपीडनकर्म 'निल्लंछणकम्मे'त्ति निर्लाञ्छनमेव-वर्द्धितककरणमेव कर्म निर्लाञ्छनकर्म 'दवग्गिदावणय'त्ति दवाग्ने:दवस्य दापन-दाने प्रयोजकत्वमुपलक्षणत्वादानं च दवाग्निदापनं तदेव प्राकृतत्वाद् 'दवग्गिदावणया' 'सरदहतलायपरिसोसणय'त्ति सरसः-स्वयंसंभूतजलाशयविशेषस्य इदस्य-नद्यादिषु निम्नतरप्रदेशलक्षणस्य तडागस्य-कृत्रिमजलाशयविशेषस्य परिशोषणं यत्तत्तथा, तदेव प्राकृतत्वात् स्वार्थिकताप्रत्यये 'सरदहतलायपरिसोसणया' 'असईपोसणय'त्ति दास्याः पोषणं तद्भाटीग्रहणाय, अनेन च कुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति, 'इच्चेते'त्ति 'इति' एवंप्रकाराः 'एते' निर्ग्रन्थसत्काः 'सुक्क'त्ति शुक्ला अभिन्नवृत्ता अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च 'सुक्काभिजाइ यत्ति 'शुक्लाभिजात्या' शुक्लप्रधानाः॥ अनन्तरं देवतयोपपत्तारो भवन्तीत्युक्तमथ देवानेव भेदत आह| 'कतिविहा ण'मित्यादि ॥ अष्टमशते पञ्चमः ॥ ८-५॥
LOCAॐ ॐ
पञ्चमे श्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवंसम्बन्धस्यास्येदं सूत्रम्समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति ?, गोयमा ! एगंतसो निजरा कजइ नत्थि य से पावे कम्मे कजति । समणोवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org