SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 454555ॐॐॐ साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥"[समस्तगणिपिटकस्मारितसाराणामृषीणां। परमरहस्यं निश्चयमवलम्बयतां पारिणामिकं प्रमाणम् ( विवादास्पदे दाने)॥१॥] यच्चोच्यते 'संथरणमि असुद्ध'मित्यादिनाऽशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति तद्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य च लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात् , शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राकू चर्चितं, यत्पुनरिह तत्त्वं तत्केवलिगम्यमिति । तृतीयसूत्रे 'अस्संजयअविरये'त्यादिनाऽगुणवान् पात्रविशेष उक्तः, 'फासुएण वा अफासुरण वा'इत्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादौ जीवघाताभावेन अप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्र येणापि चानेन मोक्षार्थमेव यद्दानं तच्चिन्तितं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद् , अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तश्च-"मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ। अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥१॥” इति [मोक्षार्थं यदानं.तत्प्रति विधिरेष भणितः । अनुकम्पादानं पुनने कदाचित्प्रतिषिद्धम् ॥१॥] दानाधिकारादेवेदमाह निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविलु केई दोहिं पिंडेहिं उवनिमंतेजा-एगं आउसो! अप्पणा मुंजाहि एगं थेराणं दलयाहि, से य तं पिण्डं पडिग्गहेजा, थेरा य से अणुगवेसियवा सिया जत्थेव SASRAMMUSLIM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy