________________
४ करणादि तथा मनसा भवेत् ॥१॥ तदधीनत्वाद्वाक्तनुकरणादीनां अथवा मनःकरणं सावद्ययोगमननं प्रज्ञप्तं वीतरागैः|४|| |॥२॥ मनसा पुनः काराणं एष सावधं करोत्विति चिन्तयति कृते पुनः सुष्टु कृतमित्यनुमतिर्भवति चिन्तयति ॥३॥] इह है
च पञ्चस्वणुव्रतेषु प्रत्येक सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति ॥ ४ यत् स्थविरा आजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः गौतमेन च भगवांस्तत्तावदुक्तम् , अथानन्तरोक्तशीलाः श्रमणो
पासका एव भवन्ति न पुनराजीविकोपासकाः आजीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह-एए खलु। | इत्यादि, 'एते खलु' एत एव परिदृश्यमाना निर्ग्रन्थसत्का इत्यर्थः 'एरिसग'त्ति ईदृशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, 'नो खलु'त्ति नैव 'एरिसग'त्ति उक्तरूपा उक्तार्थानामपरिज्ञानात् 'आजीविओवासय'त्ति गोशालक-||81 शिष्यश्रावकाः ॥ अथैतस्यैवार्थस्य विशेषतः समर्थनार्थमाजीविकसमयार्थस्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकमाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह-आजीविए'त्यादि, आजीविकसमयः-गोशालकसिद्धान्तः तस्य | 'अयमट्टे'त्ति इदमभिधेयम्-'अक्खीणपरिभोइणो सवे सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला | अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्थिकत्वादक्षीणपरिभोगा-अनपगताहारभोगासक्तय इत्यर्थः 'सर्वे सत्त्वाः असंयताः सर्वे प्राणिनः, यद्येवं ततः किम् ? इत्याह-से इंते'त्यादि, 'से'त्ति ततः 'हंत'त्ति हत्वा लगुडादिना अभ्य- 2 वहार्य प्राणिजातं 'छित्त्वा'असिपुत्रिकादिना द्विधा कृत्वा भित्त्वा' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन विलुप्य' त्वचो विलोपनेन 'अपद्राव्य विनाश्याहारमाहारयन्ति, 'तत्थ'त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्ववर्गे हननादि
#SHACRORES 45623
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org