________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
८ शतके उद्देशः ५ श्रमणोपासकव्रतभङ्गाः ३३१
॥३७॥
SHRSHABAR
|च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धोकावेवम्-"न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स। भन्नइ विसयस्स बहिं पडिसेहो अणुमईएवि ॥१॥ केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निदि इहेव सुत्ते विसेसेउं ॥२॥ तो कह निजुत्तीए ऽणुमइनिसेहोत्ति ? सो सविसयंमि । सामन्ने वऽन्नत्य उ तिविहं |तिविहेण को दोसो ॥३॥" [न करोतीत्यादि त्रिकं गृहिणो देशविरतस्य कथं भवति ?। भण्यते विषयावहिरनुमत्या अपि
प्रतिषेधः॥१॥ केचिद्भणन्ति गृहिणस्त्रिविधं त्रिविधेन नास्ति संवरणं । तन्न यत इहैव सूत्रे विशिष्य निर्दिष्टम् ॥२॥ | तदा कथं निर्युक्तावनुमतिनिषेध ? इति, स स्वविषये । सामान्ये वा, तथा चान्यत्र विशेषे वा त्रिविधं त्रिविधेन स्यात् को दोषः ॥३॥] इह च 'सविसयंमिति स्वविषये यथानुमतिरस्ति 'सामन्ने व' ति सामान्ये वाऽविशेषे प्रत्याख्याने सति 'अण्णत्थ उत्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ “पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवण्णस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ॥१॥"[पुत्रादिसन्ततिनिमित्तमात्रमेकादशी प्रतिमा प्रपन्नस्य गृहिणस्त्रिविध त्रिविधेन केचित् जल्पन्ति दीक्षाभिमुखस्य ॥१॥ यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यों यत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि !, उच्यते, यथा वाकाययोरिति, आह च-"आह कहं पुण मणसा करणं कारावणं अणुमई य?। जह वइतणुजोगेहिं करणाई तह भवे मणसा ॥१॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावजजोगमणणं पन्नत्तं वीयरागेहिं ॥२॥ कारावण पुण मणसा चिंतेइ करेउ एस सावज । चिंतेई य कए उण सुट्ट कयं अणुमई होइ ॥ ३॥" इति [आह कथं पुनर्मनसा करणं कारापणमनुमतिश्च । यथा वाक्तनुयोगाभ्यां
॥३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org