________________
गोयमा! इमाणं रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाइं नो अचरिमाई नो चरिमंतपएसा नो अचरि| मंतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा ?
इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमा| ण्येवान्तवर्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचर-M || मान्तप्रदेशाः, 'गोयमा ! नो चरिमा नो अचरिमा' चरमत्वं ह्येतदापेक्षिकम् , अपेक्षणीयस्याभावाच्च कथं चरिमा भवि- | व्यति !, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति ?, यदि हि रत्नप्रभाया मध्येऽन्यात पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा | तस्या अचरमत्वं युज्यते न चास्ति सा तस्मान्नाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रत्नप्रभा पश्चिमा उतर मध्यमा ? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् , अथ 'नो चरिमाइं नो अचरिमाईति कथं ?, यदा | तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो| अचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्त-नो चरिमान्त
प्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभा इति, किं तर्हि 'नियमात् नियमेनाचरमं च चरमाणि च, एतदुक्तं भवति-अव&ाश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्ख्येयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति, तथाहि
एवेत्यत उक्त भवाशाहि-31
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org