________________
त्वात् , ततः केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात्तस्येति । एवमज्ञानसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानु
सारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनःपर्यायज्ञानपर्यवाः, इहोपपत्तिः प्राग्वत् , तेभ्यो विभङ्गज्ञानपर्यवा अनन्तगुणाः, द मनःपर्यायज्ञानापेक्षया विभङ्गस्य बहुतमविषयत्वात् , तथाहि-विभङ्गज्ञानमूद्धांध उपरिमौवेयकादारभ्य सप्तमपृथिव्यन्ते ।
क्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिजानाति कांश्चित्तत्पर्यायांश्च, तानि च मन:या पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यात| पर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात् , तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमू मूर्तद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात् , तेभ्यः श्रुतज्ञानपर्यवा विशेपाधिकाः, केषाश्चित् श्रुताज्ञानाविषयीकृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टावभासं तत् , तेभ्योऽपि मत्य-| ज्ञानपर्यवा अनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः, केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात् , तद्धि मत्यज्ञानापेक्षया
स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनालादिति ॥ अष्टमशते द्वितीयः॥८-२॥
अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतःप्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाहकइविहा णं भंते ! रुक्खा पन्नत्ता, गोयमा ! तिविहा रुक्खा पण्णत्ता, तंजहा-संखेजजीविया असंखे
POCHISTICAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org