________________
परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च-"जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया। [आचार्य आह] -जं तंमि असंबद्धा तो परपज्जायववएसो ॥१॥चायसपज्जायविसेसणाइणा तस्स जमुवजुजंति । सधणमिवासंबद्धं हवंति तो पजवा तस्स ॥२॥"त्ति । यदि ते परपर्यायास्तस्य न अथ तस्य न परपर्यायाः। यत्तस्मिन्नसम्बद्धा ततः परपर्यायव्यपदेशः॥१॥ तस्य त्यागस्वपर्या-10 यविशेषणत्वादिना यदुपयुज्यन्ते ततः स्वधनमिवासम्बद्धमपि तस्य पर्याया भवन्ति ॥२॥] 'केवइया णं भंते ! सुयणाणे'त्यादौ, 'एवं चेव'त्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, ते च स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽक्षरश्रुतादयो भेदास्ते चानन्ताःक्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानामनन्तत्वात् अविभागपलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं-ग्रन्थानुसारि ज्ञानं श्रुतज्ञान, श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि, तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिरनुनासिकभेदात् अल्पप्रयत्नमहाप्रयत्नभेदादिभिश्च संयुक्तसंयोगासंयुक्तसंयोगभेदाद् व्यादिसंयोगभेदादभिधेयानन्त्याच्च भिद्यमानमनन्तभेदं भवति,ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च-“एक्के. कमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सव्वदवपज्जायरासिमाणं मुणेयवं ॥१॥ जे लब्भइ केवलो से सवन्नसहिओ य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org