SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ ॥३६॥ मत्यज्ञानिनः श्रुताज्ञानिनः, यतो मत्यज्ञानिनः श्रुताज्ञानिनश्चैकेन्द्रिया अपीति तेन तेभ्यस्तेऽनन्तगुणाः, परस्परतश्च ||alle शतके तुल्याः। तथा मिश्रसूत्रे स्तोका मनःपर्यायज्ञानिनः, अवधिज्ञानिनस्तु तेभ्योऽसङ्ख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुत- Pउद्देशः२ ज्ञानिनश्चान्योऽन्यं तुल्याः प्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्तिः पूर्वोक्तव, आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्ग- | ज्ञान्यज्ञा. ज्ञानिनोऽसयेयगुणाः, कथम् ?, उच्यते, यतः सम्यग्दृष्टिभ्यः सुरनारकेभ्यो मिथ्यादृष्टयस्तेऽसङ्ख्येयगुणा उक्तास्तेन निनामल्पः विभङ्गज्ञानिन आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्योऽसङ्ख्येयगुणाः, केवलज्ञानिनस्तु विभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धा बहुत्वं सू३२३ नामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्यं तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिष्वपि तेषां भावात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वादिति ॥अथ पर्यायद्वारे-केवइया'इत्यादि, आभि| निबोधिकज्ञानस्य पर्यवा:-विशेषधर्मा आभिनिबोधिक ज्ञानपर्यवाः, ते च द्विविधाः स्वपरपर्यायभेदात् , तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचिच्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् ?, एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या | विशुद्धः १ अन्यस्त्वसङ्ख्येयभागवृद्ध्या २ अपरः सङ्ख्येयभागवृद्ध्या ३ अन्यतरः सङ्ख्येयगुणवृद्ध्या ४ तदन्योऽसङ्ख्येयगुणवृद्ध्या ५ अपरस्त्वनन्तगुणवृद्ध्या ६ इति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वादसंख्यातस्य चासङ्ख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्या- ॥३६२॥ यास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy