________________
द्वितीयस्यैव तं जघन्येतरं भेदमुपदर्शयितुमिदमाह-'तत्थ णं जे से साइए' इत्यादि, तत्र च 'जहन्नेणं अंतोमुहत्तंति आद्यं ज्ञानद्वयमानित्योक्तं, तस्यैव जघन्यतोऽन्तर्मुहूर्त्तमात्रत्वात् , तथा 'उकोसेणं छावडिं सागरोवमाई साइरेगाईति यदुक्तं तदाद्यं ज्ञानत्रयमाश्रित्य, तस्य हि उत्कर्षेणैतावत्येव स्थितिः, सा चैवं भवति-"दो वारे विजयाइसु गयस्स तिन्नचए अहव ताई । अइरेगं नरभवियं णाणाजीवाण सबद्धं ॥१॥" [विजयादिषु द्विरच्युते त्रिर्गतस्य अथ तानि नरभविकातिरेकाणि नानाजीवानां सर्वाद्धां ॥१॥] 'आभिणिबोहिये'त्यादि सूचामात्रम्, एवं चैतद्रष्टव्यम्-'आभिणिबोहियणाणी णं भंते ! आभिणिबोहियनाणित्ति कालओ केवञ्चिरं होइ? त्ति 'एवं नाणी आभिणिबोहियनाणी'त्यादि, अयमर्थः-एव'मित्यनन्तरोक्तेन 'आभिणियोहिए'त्यादिना सूत्रक्रमेण ज्ञान्याभिनिबोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानिमनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां संचिट्ठणे'ति अवस्थितिकालो यथा कायस्थिती प्रज्ञापनाया अष्टादशे पदेऽभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच्च पूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम् , आभिनिबोधिकज्ञानादिद्वयस्य तु जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरेकाणि षट्षष्टिः सागरोपमाणि, अवधिज्ञानिनामप्येवं, नवरं जघन्यतो विशेषः, स चायम्-'ओहिनाणी जहन्नेणं एक समयं' कथं ?, यदा विभङ्गज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एव विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदा एक समयमवधिर्भवतीत्युच्यते । 'मणपज्जवनाणी णं भंते ! पुच्छा, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं देसूणा पुषकोडी, कथं १, संयतस्याप्रमत्ताद्धायां वर्त्तमानस्य मनःपर्यवज्ञानमुत्पन्नं तत उत्पत्तिसमयसमनन्तरमेव विनष्टं
4567.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org