________________
*
व्याख्याप्रज्ञप्तिः समयदेवीपावृतिः ॥३५९॥
****
८ शतके उद्देशः२ मत्यादीनां विषयःप
ोयाश्च सू ३२३
**
पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 'उज्जुमईत्ति मननं मतिः संवेदनमित्यर्थः ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, "अणंते'त्ति 'अनन्तान' अपरिमितान् 'अणंतपएसिए'त्ति अनन्तपरमाण्वात्मकान् | 'जहा नंदीए'त्ति, तत्र चेदं सूत्रमेवं-'खंधे जाणइ पासइत्ति तत्र 'स्कन्धान्' विशिष्टैकपरिणामपरिणतान् सज्ञिभिः पर्याप्तकः प्राणिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनरत्वेन परिणामितानित्यर्थः, 'जाणइत्ति मनःपर्यायज्ञानावरणक्षयो|पशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थ घटादिलक्षणं मनःपर्याय
ज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽतः पश्यतीत्युच्यते, उक्तञ्च भाष्यकारेण-"जाणइ | बज्झेऽणुमाणाओ"त्ति, [बाह्याननुमानाजानाति] इत्थं चैतदङ्गीकर्तव्यं, यतो मूर्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि धर्मास्तिकायादिकं मन्येरन् , न च तदनेन साक्षात् कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्नालम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दुष्टम् , एकप्रमात्रपेक्षया तदनन्तरभावित्वाञ्चोपन्यस्तमित्यलम|तिविस्तरेण, 'ते चेव उ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासई तानेव स्कन्धान विपुला|विशेषग्राहिणी मति विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता |मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्यासौ विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतरान् द्रव्यार्थतया वर्णादिभिश्च वितिमिरतरा इव-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिर
*
*
*
॥३५९॥
*
*RSS
Jain Educati
o nal
For Personal & Private Use Only
KIw.jainelibrary.org