________________
जानातीत्युक्तम् , अनभिलाप्यभावापेक्षया तु "सुए चरिते न पजबा सो" इत्युक्तमिति न विरोधः।'दबोणमित्यादि, अवधिज्ञानी रूपिद्रव्याणि पुद्गलद्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवत्तीनि, यत उक्तं-"तेयाभासादवाण अंतरा एत्थ लभति पट्टवओ" त्ति, [अत्र प्रस्थापकस्तेजोभाषावर्गणयोरन्तरालद्रव्याणि जानाति] | उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य, पश्यति सामान्याकारणावधिज्ञानि-1 नोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्तकिमर्थमेनं परित्यज्य प्रथमं जानातीत्युक्तम् , अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम् , अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वे-18 नाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, 'जहा नंदीए'त्ति, एवं च तत्रेदं सूत्रं-'खेत्तओ णं ओहिणाणी जहन्नेणं अंगुलस्स असं-18 खेजइभागं जाणइ पासई' इत्यादि, व्याख्या पुनरेवं-क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गलस्यासङ्ख्येयभागमुत्कृष्टतोऽसङ्ख्येयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयं भागमुत्कृष्टतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च जानाति पश्यति, तद्भतरूपिव्यावगमात्, अथ कियडूरं यावदिह नन्दीसूत्रं वाच्यम् ? इत्याह-'जाव भावओ'त्ति भावाधिकार यावदित्यर्थः, स चैवं-भावतोऽवधिज्ञानी जघ-|| न्येनानन्तान् भावानाधारद्रव्यानन्तत्वाजानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तान् भावान् जानाति |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org