SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३५८ ॥ देतावज्ज्ञेयम् ॥ २ ॥ यद्वा आदेश इति श्रुतं श्रुतोपलब्धेषु तस्य मतिज्ञानं प्रसरति तद्भावनया सूत्रानुसारेण विनाऽपि ॥ ३ ॥ ] इदं च सूत्रं नन्द्यामिहैव वाचनान्तरे 'न पासइ 'त्ति पाठान्तरेणाधीतम्, एवं च नन्दिटीकाकृता व्याख्यातम् - " आदेशः - प्रकारः, स च सामान्यतो विशेषतश्च तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन, शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति,” “उवउप्ते' त्ति” भावश्रुतोपयुक्तो नानुपयुक्तः, स हि नाभिधानादभिधेयप्रतिपत्तिसमर्थो भवतीति विशेषणमुपात्तं, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' विशेषतोऽवगच्छति, श्रुतज्ञानस्य | तत्स्वरूपत्वात्, पश्यति च श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनेन सर्वद्रव्याणि चाभिलाप्यान्येव जानाति, पश्यति वाभिनदशपूर्वरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुकं| ननु पश्यतीति कथं ?, कथं च न, सकलगोचर दर्शनायोगात् १, अत्रोच्यते, प्रज्ञापनायां श्रुतानपश्य सायाः प्रतिपादि| तत्वादनुत्तर विमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्बे तु 'न पासइ'त्ति पठन्तीति, ननु 'भावओ णं सुयनाणी उवउत्ते सबभावे जाणइ' इति यदुक्तमिह तत् "सुए चरिते न पज्जवा सवे" त्ति [ श्रुते चारित्रे न सर्वे पर्यायाः ( अभिलाप्यापेक्षया) ।] अनेन च सह कथं न विरुध्यसे ?, उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चौदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान् जातितो जानाति, अथवा यद्यप्यभिलाप्याना भावानामनन्तभाग एव श्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्ते असतदपेक्षया सर्व भावान् Jain Education International For Personal & Private Use Only ८ शतके उद्देशः २ मत्यादीनां विषयः प यायाश्च सू ३२३ ॥ ३५८ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy