SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ SHARRASSALERS | 'पासइ'त्ति पश्यति अवग्रहहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः-"नाणमवायधिईओ दंसण.दा 5 मिडं जहो ग्गहेहाओ। तह तत्तई सम्म रोइजइ जेण तंणाणं ॥१॥” तथा-"ज सामन्नग्गहणं दसणमेयं विसेसियं नाणं" [अपायधारणे ज्ञानमवग्रहेहे दर्शनं यथेष्टं तथा तत्त्वरुचिः सम्यक्त्वं येन रोच्यते तज्ज्ञानम् ॥१॥ यत्सामान्यग्रहणं दर्शन|मेतद् विशेषितं ज्ञानम् ।] अवग्रहेहे च सामान्यार्थग्रहणरूपे अवायधारणे च विशेषग्रहणस्वभावे इति, नन्वष्टाविंशतिभेदमानमाभिनिबोधिकज्ञानमुच्यते, यदाह-"आभिणिबोहियनाणे अठ्ठावीसं हवंति पयडीओ"त्ति [आभिनिबोधिक ज्ञाने प्रकृतयोऽष्टाविंशतिर्भवन्ति] इह च व्याख्याने श्रोत्रादिभेदेन षड्भेदतयाऽवायधारणयो‘दशविधं मतिज्ञान प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयोर्व्यञ्जनावग्रहस्य च चतुर्विधतया षोडशविधं चक्षुरादिदर्शन मिति प्राप्तमिति | कथं न विरोधः?, सत्यमेतत् , किन्त्वविवक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेदं मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या । व्याचक्षत इति, 'खेत्तओत्ति क्षेत्रमाश्रित्याभिनिबोधिक ज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिक ज्ञानं तत्र 'आदेसेणं ति ओघतः श्रुतपरिकर्मिततया वा'सवं खेतति लोकालोकरूपम् , एवं कालतो भावतश्चेति, आह च भाष्यकार:"आएसोत्ति पगारो ओघादेसेण सबदबाई । धम्मस्थिकाइयाई जाणइ न उ सबभावेणं ॥१॥ खेत्तं लोगालोगं कालं सबद्धमहव तिविहंपि । पंचोदइयाईए भावे जन्नेयमेवइयं ॥२॥ आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ॥३॥” इति [आदेश इति प्रकारः सामान्यादेशेन सर्वद्रव्याणि धर्मास्ति| कायादीनि जानाति न तु सर्वभावैः॥१॥ लोकालोकं क्षेत्रं सर्वाद्धां कालमथवा त्रिविधमपि । भावानौदयिकादीन् पञ्च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy