________________
णतवान्' प्राप्तवानिति । 'अह से'त्ति अथ 'तत्' दुःखितत्वाधनेकभावहेतुभूतं 'वेयणिज्जेत्ति वेदनीयं कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयादि च '
निर्जीण क्षीणं भवति ततः पश्चात् 'एगभावे'त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूतः' एकत्वं प्राप्तः 'सिय'त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ॥ पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह
परमाणुपोग्गले णं भंते! किं सासए असासए ?, गोयमा! सिय सासए सिय असासए, से केणटेणं भंते ! एवं वुच्चइ सिय सासए सिय असासए ?, गोयमा ! दवट्ठयाए सासए वन्नपज्जवेहिं जाव फासपजवेहिं असासए से तेणटेणं जाव सिय सासए सिय असासए (सूत्रं ५१२)॥ परमाणुपोग्गले णं
भंते ! किं चरमे अचरमे ?, गोयमा ! दवादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, 5 है कालादेसेणं सिय चरिमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे (सूत्रं ५१३)॥
'परमाणुपोग्गले णंति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए'त्ति शश्वद्भवनात् 'शाश्वतः' नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए'त्ति कथञ्चिच्छाश्वतः 'दवट्टयाए'त्ति द्रव्यं-उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थस्तद्भावस्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् , 'वन्नपज्जवेहिंति परि-सामस्त्येनावन्ति-गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनान्तरं ते च वर्णादिभेदादनेकधेत्यतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org