________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६३७॥
'अस्थि 'मित्यादि, 'सक्कारेइ व'त्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽsदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो | पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ व'त्ति सन्मानः - तथाविधप्रतिपत्तिकरणं 'किइकम्मेइ व'त्ति कृतिकर्म्म - वन्दनं कार्यकरणं वा 'अन्भुट्ठाणे वत्ति अभ्युत्थानं - गौरवार्हदर्शने विष्टरत्यागः 'अंजलिपग्गहेइ व'त्ति अञ्जलिप्रग्रहः - अञ्जलिकरणम् ' आसणाभिग्गहेइ वत्ति आसनाभिग्रहः तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ वत्ति आसनानुप्रदानं - गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पच्चुग्गच्छणयत्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पज्जुवासणयत्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पडिसं| साहणय'त्ति गच्छतोऽनुत्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ॥ पूर्व विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पडिए ण' मित्यादि, 'एवं एएणं अभिलावेण मित्यादौ 'आइहिउद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं, तत्र चाल्पर्द्धिक - | महर्द्धिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः| 'गोयमा ! पुत्रिं सत्थेणं अक्कमित्ता पच्छा वीईवएजा नो पुत्रिं वीईवइत्ता पच्छा सत्थेणं अक्कमिज्जत्ति, तृतीयस्तु महर्द्धिकाल्पर्द्धिकालापक एवं - 'महड्डिए णं भंते ! देवे अप्पट्टियस्स देवस्स मज्झमज्झेणं वीइवएज्जा ?, हंता वीइवएज्जा, से णं भंते ! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू?' शस्त्रेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्तावि पभू अणकमित्तावि पभू, से णं भंते । किं पुष्टिं सत्थेणं अक्कमित्ता पच्छा वीइवएजा पुत्रिं वीहव
Jain Education International
For Personal & Private Use Only
१४ शतके ३ उद्देशः नारकादीनां सत्कारा दि देवानां मध्येन ग
तिः सू
५०७-५०८
॥६३७॥
www.jainelibrary.org