SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ व्या० १०६ प्रश्नः, उत्तरं तु 'जे से तत्थ'त्ति अथ ये तत्रेति तयोः चरमदेवावासपरमदेवावासयोः ' परिपार्श्वतः' समीपे सौधर्मादे| रासन्नाः सनत्कुमारादेर्वाऽऽसन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावास'त्ति यस्यां लेश्यायां वर्त्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिं'ति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति, यत उच्यते - "जल्लेसे मरइ जीवे तल्लेसे वेव उववज्जह" त्ति 'से य'त्ति स पुनरनगारस्तत्र मध्यमभागवर्त्तिनि देवावासे गतः 'विरा| हिज्ज' ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत्तदा 'कम्मलेस्सामेव त्ति कर्म्मणः सकाशाद्या | लेश्या - जीवपरिणतिः सा कर्म्मलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एव प्रतिपतति अशुभतरतां याति न तु | द्रव्यलेश्यायाः प्रतिपतति सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति । पक्षान्तरमाह - 'से य तत्थे'त्यादि, 'सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणामं तदा तामेव च लेश्यां ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति ' आस्त इति ॥ इदं सामान्यं देवावासमाश्रित्योक्तं, अथ विशेषितं तमेवाश्रित्याह'अणगारे ण'मित्यादि, ननु यो भावितात्माऽनगारः स कथमसुरकुमारेषूत्पत्स्यते विराधितसंयमानां तत्रोत्पादादिति, उच्यते, पूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति ॥ अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह- 'नेरइयाण' मित्यादि, 'कहं सीहा गइ'त्ति 'कथं' केन प्रकारेण कीदृशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भवतीति प्रतीतं, यादृशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृतः 'कहं सीहे गइविसए' त्ति कथ For Personal & Private Use Only Kalainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy