________________
१३ शतके ७ उद्देशः मनःकाययोरात्मत्वा दिसू ४९५
व्याख्या भवति शरीराकार इत्यर्थः 'पुष्विपि काए'त्ति जीवसम्बन्धकालारपूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृतप्रज्ञप्तिः
दर्दुरशरीरं 'काइजमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिकअभयदेवी-18 तेवि काए'त्ति कायसमयो-जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवया वृत्तिः२
| रवत्, 'पुदिपिकाए भिजइ'त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते प्रति॥६२३॥
क्षणं पुद्गलचयापचयभावात् , 'काइज्जमाणेवि काए भिजईत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात् , 'कायसमयवीतिकतेऽवि काये भिजई'त्ति कायसमयव्यतिक्रान्तस्य च कायता भूसभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसू. त्राणि कायशब्दस्य केवलशरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह-'कायसद्दो सवभावसामनसरीरवाई' कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमानं तद्वाचक इत्यर्थः, एवं च 'आयाविकाए सेसदवाणिवि कार्य'त्ति, इदमुक्तं भवति-आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः-उच्छ्रासादियुक्तावयवसञ्चयरूपः, अजीवः कायःतद्विलक्षणः, जीवानां कायो-जीवराशिः, अजीवानां कायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि॥अथ कायस्यैव भेदानाह-'कइविहे ण'मित्यादि, अयं च सप्तविधोऽपि प्राग् विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थ लेशतो व्याख्यायते, तत्र च 'ओरालिए'त्ति औदारिकशरीरमेव पुद्ग
॥६२३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org