SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ | निरूपणायाह - ' आया भंते ! काये' इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात् न ह्यन्येन कृतमन्योऽनुभवति | अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्न:, [ग्रन्थाग्रम् १३००० ] उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव | कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतागमप्रसङ्ग | इति, 'अन्नेवि काये'त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः तथा च संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, | 'अन्नेवि काए'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रूविपि कात्ति | रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्म्मणका यस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्, "एवं एकेके पुच्छत्ति पूर्वोक्तप्रकारेणैके कसूत्रे पृच्छा विधेया, तद्यथा - 'सचित्ते भंते ! काये अचित्ते काये ?' इत्यादि, अत्रोत्तरं - ' सचित्तवि काए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तेवि काए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये 'ति जीवोऽपि विवक्षितोच्छ्रासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि कार्य'त्तिअजीवोऽपि उच्च्छासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि काये'त्ति | जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि कायेत्ति अजीवानामपि स्थापनार्हदादीनां 'कायः शरीरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy