________________
त्रेषु 'सिय इको' इत्यादि, यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैको धर्मास्तिकायप्रदेशोऽवगाढः, यदा तु द्वयो ११२ स्तदा द्वाववगाढौ, यदा तु त्रिषु । १ । १ । १ । तदा त्रय इति, एवमधर्मास्तिकायस्याकाशास्तिकायस्य च वाच्यं, 'सेसं जहेव दोहं'ति 'शेष' जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतं तथैव | पुद्गलप्रदेशत्रयचिन्तायामप्यध्येयं, पुद्गलप्रदेश त्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः, 'एवं एक्केको वयवो पएसो आइल्लेहिं तिहिं २ अस्थिकाए हिं'ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये | एकैकः प्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाह चिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि - ' जत्थ णं भंते! चत्तारि पुग्गलत्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा १, सिय एक्को सिम दोनि सिय तिन्नि सिय चत्तारि' इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेव दोहं'ति शेषेषु जीवास्तिकायादिषु त्रिषु सूत्रेषु पुङ्गलप्रदेशचतुष्टय चिन्तायां तथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वयावगाहचिन्तायामुक्तं तच्चैवं - ' जत्थ णं भंते ! चित्तारि पोग्गलत्थि कायप्पएसा ओगाढा तत्थ केवतिया जीवत्थिकायप्पएसा ओगाढा ?, अनंता' इत्यादि, 'जहा असंखेज्जा एवं अणंतावित्ति, अस्यायं भावार्थ:- ' जत्थ णं भंते ! अनंता पोग्गलत्थिकायप्पएसा ओगाढा तत्थ केवतिया | धम्मत्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि जाव सिय असंखेज्जा' एतदेवाध्येयं न तु 'सिय अनंत'ति, धर्मास्तिकायाधर्मास्तिकाय लोकाकाशप्रदेशानामनन्तानामभावादिति ॥ अथ प्रकारान्तरेणावगाहद्वारमेवाह - ' जत्थ ण'मित्यादि, धर्मास्तिकायशब्देन समस्ततत्प्रदेश सङ्ग्रहात प्रदेशान्तराणां चाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org