SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ बादरतेजसां तु समयक्षेत्र एव सद्भावात् सूक्ष्मतेजसां पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वादिति, अनोच्यते. इह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसदृशवस्तुनः स्पर्शः तेजस्कायिकस्पर्श इति व्याख्येयं न तु साक्षात्तेज| स्कायिकस्यैव असंभवात् अथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकादिजीवस्पर्शापेक्षयेदं व्याख्येयमिति ॥ प्रणिधिद्वारे 'पणिहाय'त्ति प्रणिधाय-प्रतीत्य 'सबमहंतिय'त्ति सर्वथा महती अशीतिसहस्राधिकयोजनलक्षप्रमाणत्वाद्रलप्रभावाहल्यस्य शर्कराप्रभावाहल्यस्य च द्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात् 'सबखुड्डिया सबंतेसु'त्ति सर्वथा लध्वी 'सर्वान्तेषु' पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वाद्रत्नप्रभायास्ततो महत्तरत्वात् शर्कराप्रभायाः, 'एवं जहा जीवाभिगमे इत्यादि, अनेन च यत्सूचितं तदिदं-'हंता गोयमा ! इमा णं रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय जाव सबखुड्डिया सबंतेसु । दोच्चा णं भंते ! पुढवी तच्चं पुढविं पणिहाय सबखुड्डिया जाव सर्वतेसु, एवं एएणं अभिलावेणं जाव छठिया पुढवी अहे सत्तमं पुढविं पणिहाय जाव सबखुड्डिया सर्वतेसु'त्ति ॥ निरयान्तद्वारे 'निरयपरिसामंतेसुत्ति निरयावासानां पार्श्वत इत्यर्थः 'जहा नेरइयउद्देसए'त्ति जीवाभिगमसम्बन्धिनि, तत्र |चैवमिदं सूत्रम्-'आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया, ते णं जीवा महाकम्मतरा चेव जाव महावेयणतरा चेव ?, हंता गोयमा !' इत्यादि ॥ लोकमध्यद्वारे 'चउत्थीए पंकप्पभाए'इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याधोलोको भवति लोकान्तं यावत् , स च सातिरेकाः सप्त रज्जवस्तन्मध्यभागः चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिवाह्य भवतीति, तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्ध लोको व्यपदि For Personal & Private Use Only Anw.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy