SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Jain Education ज्ञिषूत्पद्यन्तेऽतस्तेऽसज्ञिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उववहंती' त्यपि भावनीयं, शेषाणि तु | पदान्युत्पादवद्व्याख्येयानि, उक्तञ्च चूर्ण्यम् - "असन्निणो य बिब्भंगिणो य उबट्टणाइ वज्जेज्जा । दोसुवि य चक्खुदंसणी मणवइ तह इंदियाई वा ॥ १ ॥” इति ॥ अनन्तरं रत्नप्रभानारकाणामुत्पादे उद्वर्त्तनायां च परिमाणमुक्तमथ तेषामेव | सत्तायां तदाह - 'इमीसे ण'मित्यादि, 'केवइया अणंतरोववन्नग'त्ति कियन्तः प्रथमसमयोत्पन्नाः १ इत्यर्थः ' परंपरोववन्नग'त्ति उत्पत्तिसमयापेक्षया व्यादिसमयेषु वर्त्तमानाः 'अनंतरावगाढ'त्ति विवक्षितक्षेत्रे प्रथमसमयावगाढाः 'परं | परोगाढ'त्ति विवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषां ते परम्परावगाढा: 'केवइया चरिम'त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्त्तमानाश्चरमाः, अचरमास्त्वितरे, 'असन्नी सिय अस्थि |सिय नत्थिति असञ्ज्ञिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसञ्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा 'सिय अत्थी' त्याद्युक्तं, मानमायालोभकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात् 'सिय अस्थि' इत्यादि वाच्यं, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाच्यमिति ॥ अनन्तरं सङ्ख्यातविस्तृतनरकावासनारक वक्तव्यतोक्ता, अथ तद्विपर्ययवक्तव्यतामभिधातुमाह'इमी से ण' मित्यादि, 'तिन्नि गमग'त्ति 'उववज्वंति उद्यहंति पन्नत्त'त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेज्जा उच्चट्टावेयवत्ति, कथं ?, ते हि तीर्थङ्करादय एव भवन्ति, ते च स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नी तिसुवि गमएसु न भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढमं' इति वचना For Personal & Private Use Only jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy